- Madhurashtakam - http://www.madhurashtakam.com -

अच्युताष्टकम् Achyutashtakam

अच्युताष्टकम् Achyutashtakam

अच्युतं केशवं राम नारायणं कृष्ण दामोदरं वासुदेवं हरिम् ।
श्रीधरं माधवं गोपिकावल्लभं जानकी नायकं रामचंद्रं भजे ॥1॥

अच्युतं केशवं सत्यभामाधवं माधवं श्रीधरं राधिकाराधितम् ।
इन्दिरामन्दिरं चेतसा सुन्दरं देवकी नन्दनं नन्दजं सन्दधे ॥2॥

विष्णवे जिष्णवे शङ्खिने चक्रिणे रुक्मिणि रागिने जानकी जानये ।
बल्लवी वल्लभायार्चितायात्मने कंस विध्वंसिने वंशिने ते नमः ॥3॥

कृष्ण गोविन्द हे राम नारायण श्रीपते वासुदेवाजित श्रीनिधे ।
अच्युतानन्त हे माधवाधोक्षज द्वारकानायक द्रौपदीरक्षक ॥4॥

राक्षस क्षोभितः सीतया शोभितो दण्डकारण्य भू पुण्यता कारणः ।
लक्ष्मणेनान्वितो वानरौः सेवितोऽगस्तसम्पूजितो राघव पातु माम् ॥5॥

धेनुकारिष्टकोऽनिष्टकृद्द्वेषिणां केशिहा कंस हृद्वंशिका वादकः ।
पूतना कोपकः सूरजा खेलनो बाल गोपालकः पातु मां सर्वदा ॥6॥

विद्युदुद्योतवानप्रस्फुरद्वाससं प्रावृडम्भोदवत्प्रोल्लसद्विग्रहम् ।
वन्यया मालया शोभितोरःस्थलं लोहिताङ्घ्रिद्वयं वारिजाक्षं भजे ॥7॥

कुञ्चितैः कुन्तलैर्भ्राजमानाननं रत्न मौलिं लसत्कुण्डलं गण्डयोः ।
हार केयूरकं कङ्कणप्रोज्ज्वलं किङ्किणीमञ्जुलं श्यामलं तं भजे ॥8॥

अच्युतस्याष्टकं यः पठेदिष्टदं प्रेमतः प्रत्यहं पूरुषः सस्पृहम् ।
वृत्ततः सुन्दरं कर्तृ विश्वंभरं तस्य वश्यो हरिर्जायते सत्वरम् ॥9॥