- Madhurashtakam - http://www.madhurashtakam.com -

भज गॊविन्दं Bhaj Govindam

भज गॊविन्दं Bhaj Govindam was written by Adi Shankracharya [1].

 

भज गॊविन्दं Bhaj Govindam [2]

भज गॊविन्दं Bhaj Govindam

 

भज गॊविन्दं भज गॊविन्दं
गॊविन्दं भज मूढमतॆ ।
सम्प्राप्तॆ सन्निहितॆ कालॆ
नहि नहि रक्षति डुक्रिङ्करणॆ ॥ 1 ॥

मूढ जहीहि धनागमतृष्णां
कुरु सद्बुद्धिम् मनसि वितृष्णाम् ।
यल्लभसॆ निज कर्मॊपात्तं
वित्तं तॆन विनॊदय चित्तम् ॥ 2 ॥

नारी स्तनभर नाभीदॆशं
दृष्ट्वा मा गा मॊहावॆशम् ।
ऎतन्मांस वसादि विकारं
मनसि विचिन्तया वारं वारम् ॥ 3 ॥

नलिनी दलगत जलमति तरलं
तद्वज्जीवित मतिशय चपलम् ।
विद्धि व्याध्यभिमान ग्रस्तं
लॊकं शॊकहतं च समस्तम् ॥ 4 ॥

यावद्-वित्तॊपार्जन सक्तः
तावन्-निजपरिवारॊ रक्तः ।
पश्चाज्जीवति जर्जर दॆहॆ
वार्तां कॊ‌-पि न पृच्छति गॆहॆ ॥ 5 ॥

यावत्-पवनॊ निवसति दॆहॆ
तावत्-पृच्छति कुशलं गॆहॆ ।
गतवति वायौ दॆहापायॆ
भार्या बिभ्यति तस्मिन् कायॆ ॥ 6 ॥

बाल स्तावत् क्रीडासक्तः
तरुण स्तावत् तरुणीसक्तः ।
वृद्ध स्तावत्-चिन्तामग्नः
परमॆ ब्रह्मणि कॊ‌-पि न लग्नः ॥ 7 ॥

का तॆ कान्ता कस्तॆ पुत्रः
संसारॊ‌-यमतीव विचित्रः ।
कस्य त्वं वा कुत आयातः
तत्वं चिन्तय तदिह भ्रातः ॥ 8 ॥

सत्सङ्गत्वॆ निस्सङ्गत्वं
निस्सङ्गत्वॆ निर्मॊहत्वम् ।
निर्मॊहत्वॆ निश्चलतत्त्वं
निश्चलतत्त्वॆ जीवन्मुक्तिः ॥ 9 ॥

वयसि गतॆ कः कामविकारः
शुष्कॆ नीरॆ कः कासारः ।
क्षीणॆ वित्तॆ कः परिवारः
ज्ञातॆ तत्त्वॆ कः संसारः ॥ 10 ॥

मा कुरु धनजन यौवन गर्वं
हरति निमॆषात्-कालः सर्वम् ।
मायामयमिदम्-अखिलं हित्वा
ब्रह्मपदं त्वं प्रविश विदित्वा ॥ 11 ॥

दिन यामिन्यौ सायं प्रातः
शिशिर वसन्तौ पुनरायातः ।
कालः क्रीडति गच्छत्यायुः
तदपि न मुञ्चत्याशावायुः ॥ 12 ॥

द्वादश मञ्जरिकाभिर शॆषः
कथितॊ वैया करणस्यैषः ।
उपदॆशॊ भूद्-विद्या निपुणैः
श्रीमच्छङ्कर भगवच्छरणैः ॥ 13 ॥

का तॆ कान्ता धन गत चिन्ता
वातुल किं तव नास्ति नियन्ता ।
त्रिजगति सज्जन सङ्गतिरॆका
भवति भवार्णव तरणॆ नौका ॥ 14 ॥

जटिलॊ मुण्डी लुञ्जित कॆशः
काषायान्बर बहुकृत वॆषः ।
पश्यन्नपि च न पश्यति मूढः
उदर निमित्तं बहुकृत वॆषः ॥ 15 ॥

अङ्गं गलितं पलितं मुण्डं
दशन विहीनं जातं तुण्डम् ।
वृद्धॊ याति गृहीत्वा दण्डं
तदपि न मुञ्चत्याशा पिण्डम् ॥ 16 ॥

अग्रॆ वह्निः पृष्ठॆ भानुः
रात्रौ चुबुक समर्पित जानुः ।
करतल भिक्षस्-तरुतल वासः
तदपि न मुञ्चत्याशा पाशः ॥ 17 ॥

कुरुतॆ गङ्गा सागर गमनं
व्रत परिपालनम्-अथवा दानम् ।
ज्ञान विहीनः सर्वमतॆन
भजति न मुक्तिं जन्म शतॆन ॥ 18 ॥

सुरमन्दिर तरु मूल निवासः
शय्या भूतलम्-अजिनं वासः ।
सर्व परिग्रह भॊगत्यागः
कस्य सुखं न करॊति विरागः ॥ 19 ॥

यॊगरतॊ वा भॊगरतॊ वा
सङ्गरतॊ वा सङ्गविहीनः ।
यस्य ब्रह्मणि रमतॆ चित्तं
नन्दति नन्दति नन्दत्यॆव ॥ 20 ॥

भगवद्गीता किञ्चिदधीता
गङ्गा जललव कणिका पीता ।
सकृदपि यॆन मुरारी समर्चा
क्रियतॆ तस्य यमॆन न चर्चा ॥ 21 ॥

पुनरपि जननं पुनरपि मरणं
पुनरपि जननी जठरॆ शयनम् ।
इह संसारॆ बहु दुस्तारॆ
कृपया‌-पारॆ पाहि मुरारॆ ॥ 22 ॥

रथ्या चर्पट विरचित कन्थः
पुण्यापुण्य विवर्जित पन्थः ।
यॊगी यॊग नियॊजित चित्तः
रमतॆ बालॊन्मत्तवदॆव ॥ 23 ॥

कस्त्वं कॊ‌-हं कुत आयातः
का मॆ जननी कॊ मॆ तातः ।
इति परिभावय निज संसारं
सर्वं त्यक्त्वा स्वप्न विचारम् ॥ 24 ॥

त्वयि मयि सर्वत्रैकॊ विष्णुः
व्यर्थं कुप्यसि मय्यसहिष्णुः ।
भव समचित्तः सर्वत्र त्वं
वाञ्छस्यचिराद्-यदि विष्णुत्वम् ॥ 25 ॥

शत्रौ मित्रॆ पुत्रॆ बन्धौ
मा कुरु यत्नं विग्रह सन्धौ ।
सर्वस्मिन्नपि पश्यात्मानं
सर्वत्रॊत्-सृज भॆदाज्ञानम् ॥ 26 ॥

कामं क्रॊधं लॊभं मॊहं
त्यक्त्वा‌-त्मानं पश्यति सॊ‌-हम् ।
आत्मज्ञ्नान विहीना मूढाः
तॆ पच्यन्तॆ नरक निगूढाः ॥ 27 ॥

गॆयं गीता नाम सहस्रं
ध्यॆयं श्रीपति रूपम्-अजस्रम् ।
नॆयं सज्जन सङ्गॆ चित्तं
दॆयं दीनजनाय च वित्तम् ॥ 28 ॥

सुखतः क्रियतॆ रामाभॊगः
पश्चाद्धन्त शरीरॆ रॊगः ।
यद्यपि लॊकॆ मरणं शरणं
तदपि न मुञ्चति पापाचरणम् ॥ 29 ॥

अर्थमनर्थं भावय नित्यं
नास्ति ततः सुख लॆशः सत्यम् ।
पुत्रादपि धनभाजां भीतिः
सर्वत्रैषा विहिता रीतिः ॥ 30 ॥

प्राणायामं प्रत्याहारं
नित्यानित्य विवॆक विचारम् ।
जाप्यसमॆत समाधि विधानं
कुर्व वधानं महद्-अवधानम् ॥ 31 ॥

गुरु चरणाम्भुज निर्भरभक्तः
संसाराद्-अचिराद्-भव मुक्तः ।
सॆन्दिय मानस नियमादॆवं
द्रक्ष्यसि निज हृदयस्थं दॆवम् ॥ 32 ॥

मूढः कश्चिन वैयाकरणॊ
डुकृण्करणाध्ययन धुरीणः ।
श्रीमच्छङ्कर भगवच्चिष्यैः
बॊधित आसीच्छॊदित करणैः ॥ 33 ॥